|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.143. अध्यायः 143
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शरणागतरक्षणे मुचुकुन्दंप्रति भार्गवोक्तव्याधकपोतोपाख्यानानुवादारम्भः॥ 1॥ वनमध्ये महावृष्टिनिपीडितेन वेदनचिद्व्याधेन वर्थपीडयाऽधः पतितां काञ्चन कपोर्ती पञ्जरे निरुद्ध्य वृष्ट्युपरमे कस्यचिन्महावृक्षस्याधोदेशे शयनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-143-0x(5777)(70775)
पितामह महाप्राज्ञ सर्वशास्त्रविशारद।
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे॥ 12-143-1(70776)
भीष्म उवाच। 12-143-2x(5778)
महान्धर्मो महाराज शरणागतपालने।
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम॥ 12-143-2(70777)
शिबिप्रभृतयो राजन्राजानः शरणं गतान्।
परिपाल्य महात्मानः संसिद्धिं परमां गताः॥ 12-143-3(70778)
श्रूयते च कपोतेन शत्रुः शरणमागतः।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः॥ 12-143-4(70779)
युधिष्ठिर उवाच। 12-143-5x(5779)
कथं कपोतेन पुरा शत्रुः शरणमागतः।
स्वमांसं भोजितः कां च गतिं लेभे स भारत॥ 12-143-5(70780)
भीष्म उवाच। 12-143-6x(5780)
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम्।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै॥ 12-143-6(70781)
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः।
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ॥ 12-143-7(70782)
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्।
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप॥ 12-143-8(70783)
उशनोवाच। 12-143-9x(5781)
धर्मिश्चयसंयुक्तां कामार्थसहितां कथाम्।
शृणुष्वावहितो राजन्गदतो मे महाभुजः॥ 12-143-9(70784)
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमितः।
चचार पृथिवीपाल घोरः शकुनिलुब्धकः॥ 12-143-10(70785)
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः।
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः॥ 12-143-11(70786)
नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवाः।
बान्धवैः संपरित्यक्तस्तेन रौद्रेण कर्मणा॥ 12-143-12(70787)
नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः।
आत्मानं यो न संधत्ते सोन्यस्य स्यात्कथं हितः॥ 12-143-13(70788)
ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते॥ 12-143-14(70789)
स वै क्षारकमादाय वने हत्वा च पक्षिणः।
चकार विक्रयं तेषां पतङ्गानां जनाधिपः॥ 12-143-15(70790)
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत॥ 12-143-16(70791)
तस्य भार्यासहायस्य रममाणस्य शाश्वतम्।
दैवयोगविमूढस्य नान्या वृत्तिररोचत॥ 12-143-17(70792)
ततः कदाचित्तस्याथ वनस्थस्य समन्ततः।
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः॥ 12-143-18(70793)
मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम्।
संछन्नस्तु मुहूर्तेन नौसार्थैरिव सागरः॥ 12-143-19(70794)
वारिधारासमूहेन संप्रहृष्टः शतक्रतुः।
क्षणेन पूरयामास सलिलेन वसुंधराम्॥ 12-143-20(70795)
ततो धाराकुले लोके संभ्रमन्नष्टचेतनः।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना॥ 12-143-21(70796)
नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहंगहा।
पूरितो हि जलौघेनन तस्य मार्गो वनस्य तु॥ 12-143-22(70797)
पक्षिणं वर्षवेगेन हता लीनास्तु पादपात्।
मृगसिहवराहाश्च ये चान्ये तत्र पक्षिणः॥ 12-143-23(70798)
महता वातवर्षेण त्रासितास्ते वनौकसः।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने॥ 12-143-24(70799)
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान्।
ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम्॥ 12-143-25(70800)
दृष्टवाऽऽर्तोपि हि पापात्मा स तां पञ्जरकेऽक्षिपत्।
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे॥ 12-143-26(70801)
पापात्मा पापकारित्वत्पापमेव चकार सः।
सोऽपश्यत्तरुषण्डेषु मेघनीलं वनस्पतिम्॥ 12-143-27(70802)
सेव्यमानं विहंगौघैश्छायावासफलार्थिभिः।
धात्रा परोपकाराय स साधुरिव निर्मितः॥ 12-143-28(70803)
अथाभवत्क्षणेनैव वियद्विमलतारकम्।
महत्सर इवोत्फुल्लं कुमुदच्छुरितोदकम्।
कुसुमाकारताराढ्यमाकाशं निर्मलं बहु॥ 12-143-29(70804)
घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः।
दिशो विलोकयामास वेलां च सुदुरात्मवान्॥ 12-143-30(70805)
दूरे ग्रामनिवेशश्च तस्मात्स्थानादिति प्रभो।
कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः॥ 12-143-31(70806)
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम्।
शरणं यामि यान्यस्मिन्दैवतानीति भारत॥ 12-143-32(70807)
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले।
दुःखेन महताऽऽविष्टस्ततः सुष्वाप पक्षिहा॥ ॥ 12-143-33(70808)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः॥ 143॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-143-11 काकोलः काकविशेषः॥ 12-143-15 क्षारकं जालम्॥ 12-143-23 येचान्ये तत्र वर्तिन इति ट. द. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|